|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.212. अध्यायः 212
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
महेश्वरेण पार्वतींप्रति विस्तरेण राजधर्मकथनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
उमोवाच।
देवदेव नमस्तुभ्यं त्र्यक्ष भो वृषभध्वज।
श्रुतं मे भगवन्सर्वं त्वत्प्रसादान्महेश्वर॥ 13-212-1(89596)
सङ्गृहीतं मया तच्च तव वाक्यमनुत्तमम्।
इदानीमस्ति संदेहो मानुषेष्विह कश्चन॥ 13-212-2(89597)
तुल्यप्राणशिरःकायो राजाऽयमिति मृश्यते।
केन कर्मविपाकेन सर्वप्राधान्यमर्हति॥ 13-212-3(89598)
स चापि दण्डयन्मर्त्यान्भर्त्सयन्विधमन्नपि।
प्रेत्यभावे कथं लोकाँल्लभते पुण्यकर्मणा।
राजवृत्तमहं तस्माच्छ्रोतुमिच्छामि मानद॥ 13-212-4(89599)
महेश्वर उवाच। 13-212-5x(7485)
तदहं ते प्रवक्ष्यामि राजधर्मं शुभानने॥ 13-212-5(89600)
राजायत्तं हि यत्सर्वं लोकवृत्तं शुभाशुभम्।
महतस्तपसो देवि फलं राज्यमिति स्मृतम्॥ 13-212-6(89601)
तपोदानमयं राज्यं परं स्थानं विधीयते।
तस्माद्राज्ञः सदा मर्त्याः प्रणमन्ति यतस्ततः॥ 13-212-7(89602)
न्यायतस्त्वं महाभागे श्रोतुकामाऽसि भामिनि।
तस्मात्तस्यैव चरितं जगत्पथ्यं शृणु प्रिये॥ 13-212-8(89603)
अराजके पुरा त्वासीत्प्रजानां सङ्कुलं महत्।
तदृष्ट्वा सङ्कुलं ब्रह्मा मनुं राज्ये न्यवेदयत्।
तदाप्रभृति संदृष्टं राज्ञां वृत्तं शुभाशुभम्॥ 13-212-9(89604)
तन्मे शृणु वरारोहे तस्य पथ्यं जगद्धितम्।
यथा प्रेत्य लभेत्स्वर्गं यथा वीर्यं यशस्तथा॥ 13-212-10(89605)
पित्र्यं वा भूतपूर्वं वा स्वयमुत्पाद्य वा पुनः।
राज्यधर्ममनुष्ठाय विधिवद्भोक्तुमर्हति॥ 13-212-11(89606)
आत्मानमेव प्रथमं विनयैरुपपादयेत्।
अनु भृत्यान्प्रजाः पश्चादित्येष विनयक्रमः॥ 13-212-12(89607)
स्वामिनं चोषमां कृत्वा प्रजास्तद्वृत्तकाङ्क्षया।
स्वयं विनयसम्पन्ना भवन्तीह शुभेक्षणे॥ 13-212-13(89608)
स्वस्मात्पूर्वतरा राजा विनयत्येव वै प्रजाः।
अपहास्यो भवेत्तादृक्स्वदोषस्यानवेक्षणात्॥ 13-212-14(89609)
विद्याभ्यासैर्वृद्धयोगैरात्मानं विनयं नयेत्।
विद्या धर्मार्थफलिनी तद्विदो वृद्धसंज्ञिताः॥ 13-212-15(89610)
इन्द्रियाणां जयो देवि अत ऊर्ध्वमुदाहृतः।
अजये सुमहान्दोषो राजानं विनिपातयेत्॥ 13-212-16(89611)
पञ्चैव स्ववशे कृत्वा तदर्थान्पञ्च शोषयेत्।
षडुत्सृज्य यथायोगं ज्ञानेन विनयेन च।
सास्त्रचक्षुर्नयपरो भूत्वा भृत्यान्समाहरेत्॥ 13-212-17(89612)
वृत्तश्रुतकुलोपेतानुपधाबिः परीक्षितान्।
अमात्यानुपधातीतान्सोपसर्पाञ्जितेन्द्रियान्।
योजयेत यथायोगं यथार्हं स्वेषु कर्मसु॥ 13-212-18(89613)
अमात्या बुद्धिसम्पन्ना राष्ट्रं बहुजनप्रियम्।
दुराधर्षं पुरश्रेष्ठं कोशः कृच्छ्रसहः स्मृतः॥ 13-212-19(89614)
अनुरक्तं बलं साम्नामद्वैधं मन्त्रमेव च।
एताः प्रकृतयः स्वेषु स्वामी विनयतत्ववित्। 13-212-20(89615)
प्रजानां रक्षणार्थाय सर्वमेतद्विनिर्मितम्।
आभिः करणभूताभिः कुर्याल्लोकहितं नृपः॥ 13-212-21(89616)
आत्मरक्षा नरेन्द्रस्य प्रजारक्षार्थमिष्यते।
तस्मात्सततमात्मानं संरक्षेदप्रमादवान्॥ 13-212-22(89617)
भोजनाच्छादनस्नानाद्बहिर्निष्क्रमणादपि।
नित्यं स्त्रीगणसंयोगाद्रक्षेदात्मानमात्मवान्॥ 13-212-23(89618)
स्वेभ्यश्चैव परेभ्यश्च शश्त्रादपि विषादपि।
सततं पुत्रदारेभ्यो रक्षेदात्मानमात्मवान्॥ 13-212-24(89619)
सर्वेभ्य एव स्थानेभ्यो रक्षेदात्मानमात्मवान्।
प्रजानां रक्षणार्थाय प्रजाहितकरो भवेत्॥ 13-212-25(89620)
प्रजाकार्यं तु तत्कार्यं प्रजासौख्यं तु तत्सुखम्।
प्रजाप्रियं प्रियं तस्य स्वहितं तु प्रजाहितम्।
प्रजार्तं तस्य सर्वस्वमात्मार्थं न विधीयते। 13-212-26(89621)
प्रकृतीनां हि रक्षार्थं रागद्वेषौ व्युदस्य च।
उभयोः पक्षयोर्वादं श्रुत्वा चैव यथातथम्।
तमर्थं विमृशेद्बुद्ध्या स्वयमातत्वदर्शनात्॥ 13-212-27(89622)
तत्वविद्भिश्च बहुभिर्वृद्धैः सह नरोत्तमैः।
कर्तारमपराधं च देशकालौ नयानयौ॥ 13-212-28(89623)
ज्ञात्वा सम्यग्यथाशास्त्रं ततो दण्डं नयेन्नृषु।
एवं कुर्वंल्लभेद्धर्मं पक्षपातविवर्जनात्॥ 13-212-29(89624)
प्रत्यक्षाप्तोपदेशाभ्यामनुमानेन वा पुनः।
बोद्धव्यं सततं राज्ञा देशवृत्तं शुभाशुभम्॥ 13-212-30(89625)
चारैः कर्मप्रवृत्त्या च तद्विज्ञाय विचारयेत्।
अशुभं निर्हरेत्सद्यो जोषयेच्छुभमात्मनः॥ 13-212-31(89626)
गर्ह्यान्विगर्हयेदेव पूज्यान्सम्पूजयेत्तथा।
दण्ड्यांश्च दण्डयेद्देवि नात्र कार्या विचारणा॥ 13-212-32(89627)
पञ्चावेक्षन्सदा मन्त्रं कुर्याद्बुद्धियुतैर्नरैः।
कुलवृत्तश्रुतोपेतैर्नित्यं मन्त्रपरो भवेत्॥ 13-212-33(89628)
कामकारेण वै मुख्यैर्न च मन्त्रमना भवेत्।
राजा राष्ट्रहितापेक्षं सत्यधर्माणि कारयेत्॥ 13-212-34(89629)
सर्वोद्योगं स्वयं कुर्याद्दुर्गादिषु सदा नृषु।
देशवृद्धिकरान्भृत्यानप्रमादेन कारयेत्॥ 13-212-35(89630)
देशक्षयकरान्सर्वानप्रियांश्च विवर्जयेत्।
अहन्यहनि सम्पश्येदनुजीविगणं स्वयम्॥ 13-212-36(89631)
सुमुखः सुप्रियो दत्त्वा सम्यग्वृत्तं समाचरेत्।
अधर्म्यं परुषं तीक्ष्णं वाक्यं वक्तुं न चार्हति॥ 13-212-37(89632)
असंविश्वास्य वचनं वक्तुं सत्सु न चार्हति।
नरेनरे गुणान्दोषान्सम्यग्वेदितुमर्हति॥ 13-212-38(89633)
स्वेङ्गितं वृणुयाद्धैर्यं न कुर्यात्क्षुद्रसंविदम्।
परेङ्गितज्ञो लोकेषु भूत्वा संसर्गमाचरेत्॥ 13-212-39(89634)
स्वतश्च परतश्चैव परस्परभयादपि।
अमानुषभयेभ्यश्च स्वाः प्रजाः पालयेन्नृपः॥ 13-212-40(89635)
लुब्धाः कठोराश्चाप्यस्य मानवा दस्युवृत्तयः।
निग्राह्या एव ते राज्ञा सङ्गृहीत्वा यतस्ततः॥ 13-212-41(89636)
कुमारान्विनयोद्बोधैर्जन्मप्रभृति योजयेत्।
तेषामात्मगुणोपेतं यौवराज्येन योजयेत्॥ 13-212-42(89637)
प्रकृतीनां यथा न स्याद्राज्यभ्रंशो भवेद्भयम्।
एतत्संचिन्तयेन्नित्यं तद्विधानं तथार्हति॥ 13-212-43(89638)
अराजकं क्षणमपि राज्यं न स्याद्धि शोभने।
आत्मनोऽनुविधानाय यौवराज्यं सदेष्यते॥ 13-212-44(89639)
कुलजानां च वैद्यानां श्रोत्रियाणां तपस्विनाम्।
अन्येषां वृत्तियुक्तानां विशेषं कर्तुमर्हति॥ 13-212-45(89640)
आत्मार्थं राज्यतन्त्रार्थं कोशार्थं च समाचरेत्।
दुर्गाद्राष्ट्रात्समुद्राच्च वणिग्भ्यः पुरुषात्ययात्॥ 13-212-46(89641)
परात्मगुणसाराभ्यां भृत्यपोषणमाचरेत्।
वाहनानां प्रकुर्वीत पोषणं योधकर्मसु॥ 13-212-47(89642)
सादरः सततं भूत्वा अवेक्षाव्रतमाचरेत्।
चतुर्दा विभजेत्कोशं धर्मभृत्यात्मकारणात्॥ 13-212-48(89643)
आपदर्थं च नीतिज्ञो देशकालवशेन तु।
अनाथान्व्यथितान्वृद्धान्स्वे देशे पोषयेन्नृपः॥ 13-212-49(89644)
सन्धिं च विग्रहं चैव तद्विशेषांस्तथा पारन्।
यथावत्संविमृश्यैव बुद्धिपूर्वं समाचरेत्॥ 13-212-50(89645)
सर्वेषां सम्प्रियो भूत्वा मण्डलं सततं चरेत्।
शुभेष्वपि च कार्येषु च चैकान्तः समाचरेत्॥ 13-212-51(89646)
स्वतश्च परतश्चैव व्यसनानि विमृश्य सः।
परेणि धार्मिकान्योगान्नातीयाद्द्वेषलोभतः॥ 13-212-52(89647)
रक्ष्यत्वं वै प्रजाधर्मः क्षत्रधर्मस्तु रक्षणम्।
कुनृपैः पीडितास्तस्मात्प्रजाः सर्वत्र पालयेत्॥ 13-212-53(89648)
यात्राकालेऽनवेक्ष्यैव पश्चात्कोपफलोदयः।
तद्युक्ताश्चापदश्चैव शासनादिति चिन्तयेत्॥ 13-212-54(89649)
व्यसनेभ्यो बलं रक्षेन्नयतो व्ययतोपि वा।
प्रायशो वर्जयेद्युद्धं प्राणरक्षणकारणात्॥ 13-212-55(89650)
कारणादेवि योद्धव्यं नात्मनः परदोषतः।
सुयुद्धे प्राणमोक्षश्च तस्य धर्माय इष्यते॥ 13-212-56(89651)
अभियुक्तो बलवता कुर्यादापद्विधिं नृपः।
अनुनीय तथा सर्वान्प्रजानां हितकारणात्॥ 13-212-57(89652)
अन्यप्रकृतियुक्तानां राज्ञां वृत्तिविचारिणाम्।
अन्यांश्चापत्प्रपन्नानां न तान्संयोक्तुमर्हति॥ 13-212-58(89653)
शुभाशुभं यदा देवि व्रतं तूभयसाधनम्।
आत्मैव तच्छुभं कुर्यादशुभं योजयेत्परान्। 13-212-59(89654)
एवमुद्देशतः प्रोक्तमलेपत्वं यथा भवेत्।
एष देवि समासेन राजधर्मः प्रकीर्तितः॥ 13-212-60(89655)
एवं संवर्तमानस्तु दण्डयन्भर्त्सयन्प्रजाः।
निष्कल्मषमवाप्नोति पद्मपत्रमिवाम्भसा॥ 13-212-61(89656)
एवं संवर्तमानस्य कालधर्मो यदा भवेत्।
स्वर्गलोके तदा राजा त्रिदशैः सह तोष्यते॥ 13-212-62(89657)
द्विविधं राज्यवृत्तं च न्यायभाग्यसमन्वितम्।
एवं न्यायानुगं वृत्तं कथितं ते शुभेक्षणे॥ 13-212-63(89658)
राज्यं न्यायानुगं तात बुद्धिशास्त्रानुगं भवेत्।
धर्म्यं पथ्यं यशस्यं च स्वर्ग्यं चैव तथा भवेत्॥ 13-212-64(89659)
राज्यं भाग्यानुगं नाम अयथावत्प्रदृश्यते।
तत्तु शास्त्रविनिर्मुक्तं सतां कोपकरं भवेत्।
अधर्म्यमयशस्यं च दुरन्तं च भवेद्ध्रुवम्॥ 13-212-65(89660)
यत्र स्वच्छन्दतः सर्वं क्रियते कर्म राजभिः।
तत्र भाग्यवशाद्भृत्या लभन्ते न विशेषतः॥ 13-212-66(89661)
यत्र दण्ड्या न दण्ड्यन्ते पूज्यन्ते वा नराधमाः।
यत्र सन्तोपि हन्यन्ते तत्र भाग्यानुगं भवेत्॥ 13-212-67(89662)
शुभाशुभं यथा यत्र विपरीतं प्रदृश्यते।
राज्ञि चासुरपक्षे तु तत्र भाग्यानुगं भवेत्॥ 13-212-68(89663)
भाग्यानुगे तु राजानो वर्तमाना यथातथा।
प्राप्याकीर्तिमनर्थं च इह लोके शुभेक्षणे॥ 13-212-69(89664)
परत्र सुमहाघोरं तमः प्राप्य दुरत्ययम्।
तिष्ठन्ति नरके देवि प्रलयान्तादिति स्थितिः॥ 13-212-70(89665)
मोक्षं दुष्कृतिनां चापि विद्यते कालपर्ययात्।
नास्त्येव मोक्षणं देवि राज्ञां दुष्कृतिकारिणाम्॥ 13-212-71(89666)
एतत्सर्वं समासेन राजवृत्तं शुभाशुभम्।
कथितं ते महाभागे भूयः श्रोतुं किमिच्छसि॥ ॥ 13-212-72(89667)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्वादशाधिकद्विशततमोऽध्यायः॥ 212 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|